तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः। अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्। तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः
ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः। भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा
ततो नृपे तक्षकतेजसाहते प्रयुज्य सर्वाः परलोकसत्क्रियाः। शुचिर्दिजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः
नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः। नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः
स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा। शशास राज्यं कुरुपुंगवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा
ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः। सुवर्णवर्माणमुपेत्य काशिप वपुष्टमार्थं वरयांप्रचक्रमुः
ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः। स चापि तां प्राप्य मुदा युतोऽभव- न्न चान्यनारीषु मनो दधे क्वचित्
सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान्। तथा स राजन्यवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः
वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम्। भावेन रामा रमयांबभूव तं विहारकालेष्ववरोधसुन्दरी
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः। चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः। तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्। तं तन्तुं च शनैराखुमाददानं बिलेशयम्
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः। उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत
के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः। दुर्बलं खादितैर्मूलैराखुना बिलवासिना
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्। तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव। ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः
अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्। कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः
तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः। अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्
अथवापि समग्रेण तरन्तु तपसा मम। भवन्तः सर्व एवेह काममेवं विधीयताम्
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि। न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्
अस्ति नस्तात तपसः फलं प्रवदतां वर। संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ
सन्तानं हि परो धर्मं एवमाह पितामहः। लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्। वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज। यायावरा नाम वयमृषयः संशितव्रताः
लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने। प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै
अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा। मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः। नियतात्मा महात्मा च सुव्रतः सुमहातपाः
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्। न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन