मुखे तं पाटयामास शस्त्रेण निशितेन च। निर्विचेष्टं भुजङ्गं तं विशस् मृगजीवनः
मोक्षयित्वा स तांव्याधः प्रक्षाल्य सलिलेन ह। समाश्वास्य कृताहारामथ पप्रच्छ भारत
कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम्। कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि
दमयन्ती तथा तेन पृच्छ्यमाना विशांपते। सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्। सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्। लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया। सान्त्वयामास कामार्तस्तदबुध्यत भामिनी
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता। तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः। दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव
दमयन्ती तु दुःखार्था पतिराज्यविनाकृता। अतीतवाक्यथे काले शशापैनं रुषा किल
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये। तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः
उक्तमात्रे तु वचने तया स मृगजीवनः। व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा। वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्
सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम्। नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम्
सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः। अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्। पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम्
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्। प्रियालतालखर्जूरहरीतकिबिभीतकैः
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्। निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः
नदी सरांसि वापीश्च विविधांश्चरतो द्विजान्। सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तटाकानि गिरिकूटानि सर्वशः। सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम्
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी। महिषान्वराहान्गोमायूनृक्षवानरपन्नगान्
तेजसा यशसा लक्ष्म्या स्थित्या च परया युता। वैर्दभी विचचारैका नलमन्वेषती तदा
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्। दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता
विदर्भतनया राजन्विललाप सुदुःखिता। भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता
सिह्योरस्क महाबाहो निषधानां जनाधिप। क्वनु राजन्गतोसि त्वं त्यक्त्वा मां विजने वने
अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः। कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे
यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते। कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ
यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप। मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः। स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर। उक्तवानसि यद्वीर मत्सकाशे पुरा वचः