एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः। अन्वेषति स्म भर्तारं वने श्वापदसेविते
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः। हाहा राजन्निति मुहुरितश्चेतश्च धावति
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्। करुणं बहुशोचन्तीं विलपन्तीं सुमध्यमाम्
सहसाऽभ्यागतां भैमीमभ्याशपरिवर्तिनीम्। जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः
सा ग्रस्यमाना ग्रहेण शोकेन च पराजिता। नात्मानं शोचति तथा यथा शोचति नैषधम्
द्वा नाथ मामिह वने ग्रस्यमानामनागसम्। ग्राहेणानेन विजने किमर्थं नानुधावसि
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध। [कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो।] पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चोतो धनानि च
श्रान्तस्य ते क्षुधार्तस् परिग्लानस्य नैषध। कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्। आक्रन्दमानां संश्रुत्य जवेनाभिससार ह
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्। त्वरमाणो मृगव्याधः संचरन्गहने वने। समभिक्रम्य वेगेन सत्वरः स वनेचरः
मुखे तं पाटयामास शस्त्रेण निशितेन च। निर्विचेष्टं भुजङ्गं तं विशस् मृगजीवनः
मोक्षयित्वा स तांव्याधः प्रक्षाल्य सलिलेन ह। समाश्वास्य कृताहारामथ पप्रच्छ भारत
कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम्। कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि
दमयन्ती तथा तेन पृच्छ्यमाना विशांपते। सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्। सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्। लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया। सान्त्वयामास कामार्तस्तदबुध्यत भामिनी
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता। तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः। दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव
दमयन्ती तु दुःखार्था पतिराज्यविनाकृता। अतीतवाक्यथे काले शशापैनं रुषा किल
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये। तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः
उक्तमात्रे तु वचने तया स मृगजीवनः। व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा। वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्
सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम्। नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम्
सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः। अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्। पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम्
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्। प्रियालतालखर्जूरहरीतकिबिभीतकैः
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्। निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः
नदी सरांसि वापीश्च विविधांश्चरतो द्विजान्। सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तटाकानि गिरिकूटानि सर्वशः। सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम्