कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया। विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा
परिधावन्नथ नल इतश्चेतश्च भारत। आससाद सभोद्देशे विकोशं स्वङ्गमुत्तमम्
तेनार्धं वाससश्छित्त्वा निवस् च परंतपः। सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम्
ततो निबद्धहृदयः पुनरागम् तां सभाम्। दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्। सेयमद्य सभामध्ये शेते भूमावनाथवत्
इयं वस्त्रावकर्तेन संवीता चारुहासिनी। उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति
कथमेका सती भमी मया विरहिता शुभा। चरिष्यति वने घोरे मृगव्यालनिषेविते
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ। रक्षन्तु त्वां महाभागे धर्मेणासि समावृता
एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुषि। कलिनाऽपहृतज्ञानो नलः प्रातिपष्ठदुद्यतः
गत्वागत्वा नलो राजा पुनरेति सभां मुहुः। आकृष्यमाणः कलिना सौहृदेनावकृष्यते
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा। दोलेव मुहुरायाति याति चैव मुहुर्मुहुः
अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः। सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु
नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः। जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा। अबुध्यत वरारोहा संत्रस्ता विजने वने
अपश्यमाना भर्तारं शोकदुःखसमन्विता। प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्। हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने
ननु नाम महारज धर्मज्ञः सत्यवागसि। कथंविधस्त्वंहि तथा सुप्तामुत्सृज्य मां गतः
कथमुत्सृज्यगन्ताऽसि वश्यां भार्यामनुव्रताम्। विशेषतो नापकृतः परेणापकृतो ह्यसि
शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर। यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ। यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ। भृशं भीतास्मि दुर्धर्ष दर्शयात्मानमीश्वर
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध। आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे
नृशंसां वत राजेन्द्र यन्मामेवंगतामिह। विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव
न शोचाम्यहमात्मानं न चान्यदपि किंचन। कथं नु भवितास्येक इति त्वां नृप शोचये
कथं नु राजंस्तृषितः क्षुक्षितः श्रमकर्शितः। सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना। इतश्चेतश्च रुदती पर्यधावत दुःखिता
मुहुरुत्पतते बाला मुहुः पतति विह्वला। मुहुरालीयते भीता मुहुः क्रोशति रोदिति
अतीव शोकसंतप्ता मुहुर्निःश्वस् विह्वला। उवाच भैमी निःश्वस् रोदमाना पतिव्रता
यस्याभिशापाद्दुःखार्तो नैष नन्दति नैषधः। तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत्
अपापचेतसं पापो य एवं कृतवान्नलम्। तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम्