दमयनत्यपि कल्याणी निद्रयाऽपहृता ततः। सहसा दुःखमासाद्य सुकुमारी तपस्विनी
सुप्तायां दमयन्त्यां तु नलो राजा विशांपते। शोकोन्मथितचित्तः सन्न स्म शेते यथा पुरा
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः। वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्
किं नु मे स्यादिदं कृत्वा किंनु मे स्यादकुर्वतः। किंनु मे मरणं श्रेयः परित्यागो जनस्य वा
मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते। मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति
मया निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता। उत्सर्गेसंशयः स्यात्तु विन्देतापि सुखं क्वचित्
स विनिश्चित्य बहुधा विचार्य च पुनःपुनः। उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप
न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि। यशस्विनी महाभागा मद्भक्तेयं पतिव्रता
एवं तस् तदा बुद्धिर्दमयन्त्यां न्यवर्तत। कलिना दुष्टभावेन दमयन्त्या विसर्जने
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्। चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्
कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया। विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा
परिधावन्नथ नल इतश्चेतश्च भारत। आससाद सभोद्देशे विकोशं स्वङ्गमुत्तमम्
तेनार्धं वाससश्छित्त्वा निवस् च परंतपः। सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम्
ततो निबद्धहृदयः पुनरागम् तां सभाम्। दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्। सेयमद्य सभामध्ये शेते भूमावनाथवत्
इयं वस्त्रावकर्तेन संवीता चारुहासिनी। उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति
कथमेका सती भमी मया विरहिता शुभा। चरिष्यति वने घोरे मृगव्यालनिषेविते
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ। रक्षन्तु त्वां महाभागे धर्मेणासि समावृता
एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुषि। कलिनाऽपहृतज्ञानो नलः प्रातिपष्ठदुद्यतः
गत्वागत्वा नलो राजा पुनरेति सभां मुहुः। आकृष्यमाणः कलिना सौहृदेनावकृष्यते
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा। दोलेव मुहुरायाति याति चैव मुहुर्मुहुः
अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः। सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु
नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः। जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा। अबुध्यत वरारोहा संत्रस्ता विजने वने
अपश्यमाना भर्तारं शोकदुःखसमन्विता। प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्। हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने
ननु नाम महारज धर्मज्ञः सत्यवागसि। कथंविधस्त्वंहि तथा सुप्तामुत्सृज्य मां गतः
कथमुत्सृज्यगन्ताऽसि वश्यां भार्यामनुव्रताम्। विशेषतो नापकृतः परेणापकृतो ह्यसि
शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर। यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ। यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति