ततस्तानन्तरीयेण वाससा स समावृणोत्। तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा
उत्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम्। दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्
वयमक्षाः सुदुर्बुद्धे तववासो जिहीर्षवः। आगता न हि नः प्रीतिः सवाससि गते त्वयि
नान्समीक्ष्य गतानक्षानात्मानं च विवाससम्। पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत्
येषां प्रकोपादैश्वर्यान्प्रच्युतोऽहमनिन्दिते। प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः। इमे ते शकुना भूत्वा वासश्चाषहरन्ति मे
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः
एते गच्छन्ति वहवः पन्थानो दिणापथम्। अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणां बहुमूलफलान्विताः
एष पन्था विदर्भाणामेष यास्यति कोसलान्। अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः। उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत
ततः सा वाष्पकलया वाचा दुःखेन कर्शिता। उवाच दमयन्ती तं नैषधं करुणं वचः
उद्वेषते मे हृदयं सीदन्त्यङ्गानि सर्वशः। तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्। कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्। वने घोरे महाराज नाशयिष्याम्यहं क्लमम्
न च भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्। नित्यं हि सर्वदुःखेषु सत्यमेतद्व्रवीमि ते ।।*
एवमेतद्यथाऽऽन्थ त्वं दमयन्ति सुमध्यमे। नास्ति बार्यासमं मित्रं नरस्यार्तस्य भेषजम्
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे। त्यजेयमहमात्मानं न चैव त्वामनिन्दिते
यदि मां त्वं महाराज न विहातुमिहच्छसि। तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि। चेतसा त्वपकृष्टेन मां त्यजेथा महीपते
पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम। अतो निमित्तं शोकं मे वर्धयस्यमरोपम
यदि चायमभिप्रायस्तव राजन्भविष्यति। सहितावेव गच्छावो विदर्भान्यदि मन्यसे
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद। तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे
इत्युक्तः स तदा देव्या नलो वचनमब्रवीत्।' यथा राज्यंतव पितुस्तथा मम नसंशयः। न तु तत्र गमिष्यामि विषमस्थः कथंचन
कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः। परिद्यूनो गमिष्यामि तव शोकविवर्धनः
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः। सान्खयामास कल्याणीं वाससोर्धेन संवृताम्
तावेकवस्त्रसंवीतावटमानावितस्ततः। क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः
तां सभामुपसंप्राप्य तदा स निषधाधिपः। वैदर्भ्या सहितो राजा निषसाद महीतले
स वै विवस्त्रो मलिनो विवर्णः पांसुगुण्ठितः। दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले
ततः स्ववसनस्यान्तं दमयन्ती विशांपते। भूमावास्तीर्य सुष्वाप पतिमालिङ्ग्य शोभना