ततः पुष्करमालोक्य नलः परममन्युमान्। `उवाच विद्यतेऽन्यच्च धनं मम नराधम
षणरूपेण निक्षिप्य पुण्यश्लोकः सुदुर्मनाः। उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च'। उन्सृज्य सर्वगात्रभ्यो भूषणानि सहायशाः
सुकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः। निश्चक्राम ततोराजा त्यक्त्वा सुविपुलां श्रियम्
दमयन्त्येकवस्त्राऽथ गच्छन्तं पृष्ठतोऽन्वगात्। स तया नगराभ्याशे त्रिरात्रं नैपधोऽवसत्
पुष्करस्तु महाराज धोषयामास वै पुरे। नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च। पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर
स तथा नगराभ्याशे सत्कारार्हो न सन्कृतः। त्रिरत्रमुषितो राजा जलमात्रेण वर्तयन्
[पीड्यमानः क्षुधा तत्र फलमृलानि कर्पयन्। प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् ।।]
क्षुधया पीड्यमानम्तु नलो बहुतिथेऽहनि। अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्
स चिन्तयामास तदा निषधाधिपतिर्बली। अस्ति भक्ष्यो ममाद्यापि वसु चेदं भविष्यति
ततस्तानन्तरीयेण वाससा स समावृणोत्। तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा
उत्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम्। दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्
वयमक्षाः सुदुर्बुद्धे तववासो जिहीर्षवः। आगता न हि नः प्रीतिः सवाससि गते त्वयि
नान्समीक्ष्य गतानक्षानात्मानं च विवाससम्। पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत्
येषां प्रकोपादैश्वर्यान्प्रच्युतोऽहमनिन्दिते। प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः। इमे ते शकुना भूत्वा वासश्चाषहरन्ति मे
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः
एते गच्छन्ति वहवः पन्थानो दिणापथम्। अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणां बहुमूलफलान्विताः
एष पन्था विदर्भाणामेष यास्यति कोसलान्। अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः। उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत
ततः सा वाष्पकलया वाचा दुःखेन कर्शिता। उवाच दमयन्ती तं नैषधं करुणं वचः
उद्वेषते मे हृदयं सीदन्त्यङ्गानि सर्वशः। तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्। कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्। वने घोरे महाराज नाशयिष्याम्यहं क्लमम्
न च भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्। नित्यं हि सर्वदुःखेषु सत्यमेतद्व्रवीमि ते ।।*
एवमेतद्यथाऽऽन्थ त्वं दमयन्ति सुमध्यमे। नास्ति बार्यासमं मित्रं नरस्यार्तस्य भेषजम्
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे। त्यजेयमहमात्मानं न चैव त्वामनिन्दिते
यदि मां त्वं महाराज न विहातुमिहच्छसि। तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि। चेतसा त्वपकृष्टेन मां त्यजेथा महीपते