मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा। अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छवा
दमयन्त्यास्तु तद्वाक्यं वार्ण्येयो नलसारथिः। न्यवेदयदशेषेण नलामात्येषु मुख्यशः
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते। ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्। इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम्। क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः। अटमानस्ततोऽयोध्यां जगाम नगरीं तदा
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः। भृतिं च स ददौ चास्य सारथ्येन नियोजितः
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः। पुष्करेण हृतं राज्यं यच्चापि वसु किंचन
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्। द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया। दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे
पुष्रेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना। व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्
ततः पुष्करमालोक्य नलः परममन्युमान्। `उवाच विद्यतेऽन्यच्च धनं मम नराधम
षणरूपेण निक्षिप्य पुण्यश्लोकः सुदुर्मनाः। उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च'। उन्सृज्य सर्वगात्रभ्यो भूषणानि सहायशाः
सुकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः। निश्चक्राम ततोराजा त्यक्त्वा सुविपुलां श्रियम्
दमयन्त्येकवस्त्राऽथ गच्छन्तं पृष्ठतोऽन्वगात्। स तया नगराभ्याशे त्रिरात्रं नैपधोऽवसत्
पुष्करस्तु महाराज धोषयामास वै पुरे। नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च। पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर
स तथा नगराभ्याशे सत्कारार्हो न सन्कृतः। त्रिरत्रमुषितो राजा जलमात्रेण वर्तयन्
[पीड्यमानः क्षुधा तत्र फलमृलानि कर्पयन्। प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् ।।]
क्षुधया पीड्यमानम्तु नलो बहुतिथेऽहनि। अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्
स चिन्तयामास तदा निषधाधिपतिर्बली। अस्ति भक्ष्यो ममाद्यापि वसु चेदं भविष्यति
ततस्तानन्तरीयेण वाससा स समावृणोत्। तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा
उत्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम्। दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्
वयमक्षाः सुदुर्बुद्धे तववासो जिहीर्षवः। आगता न हि नः प्रीतिः सवाससि गते त्वयि
नान्समीक्ष्य गतानक्षानात्मानं च विवाससम्। पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत्
येषां प्रकोपादैश्वर्यान्प्रच्युतोऽहमनिन्दिते। प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः। इमे ते शकुना भूत्वा वासश्चाषहरन्ति मे
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः
एते गच्छन्ति वहवः पन्थानो दिणापथम्। अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणां बहुमूलफलान्विताः
एष पन्था विदर्भाणामेष यास्यति कोसलान्। अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः