तमक्षमदसंमत्तं सुहृदां न तु कश्चन। निवारणेऽभवच्छक्तो दीव्यमानमरिंदमम्
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत। राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्। एष पौरजनो देवि द्वारि तिष्ठति कार्यवान्
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः। अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच नैषधं भैमी शोकोपहतचेतना
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः। `वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम्।' तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम्। आविष्टः कलिना राजा नाभ्यभाषत किंचन
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः। नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च। युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्। उन्मत्तवदनुन्मत्ता देवने कृतचेतसम्
भयशोकसमाविष्टा राजन्भीमसुता ततः। चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्। नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम्। हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम्
बृहत्सेने व्रजामात्यानानाय्य नलशासनात्। आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु
इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर। उवाच देव्या वचनं मन्त्रिणां सा समीपत
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्। अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन्
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः। न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा। दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान्। नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात्। सूतमानय कल्याणि महत्कार्यमुपस्थितम्
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम्। वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्छ्लक्ष्णया गिरा। उवाच देशकालज्ञा प्राप्तकालमनिन्दिता
जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि। तस्य त्वं विपमस्थस्य साहाय्यं कर्तुमर्हसि
यथायथा हि नृपतिः पुष्करेणैव जीयते। तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते
यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः। तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते
सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च। ममापि च तथा वाक्यं नाभिनन्दति नैषध
यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे। नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः
यत्तु मे वचनं राजा नाभिनन्दति मोहितः। शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः। न हि मे शुध्ते भावो विनाशं प्रति सारथे
नलस्य दयितानश्वान्योजयित्वा मनोजवान्। रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि