एवं स समयं कृत्वा द्वापरेण कलिः सह। आजगाम ततस्तत्र यत्रराजा स नैषधः
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्। अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्
कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः। अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्
स समाविश्य च नलं समीपं पुष्करस्य च। गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै
अक्षद्यूते नलं जेता भवान्हि सहितो मया। निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्। कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात्
आसाद्य तु नलं वीरं पुष्करः परवीरहा। दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः
न चक्षमे ततो राजा समाह्वानं महामनाः। वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत
ततः स राज्ञा सहसा देवितुं संप्रचक्रमे
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः।' हिरण्यस्य सुवर्णस्य यानयुग्यस् वाससाम्। आविष्टः कलिना द्यूते जीयते स्म नलस्तदा
तमक्षमदसंमत्तं सुहृदां न तु कश्चन। निवारणेऽभवच्छक्तो दीव्यमानमरिंदमम्
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत। राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्। एष पौरजनो देवि द्वारि तिष्ठति कार्यवान्
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः। अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच नैषधं भैमी शोकोपहतचेतना
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः। `वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम्।' तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम्। आविष्टः कलिना राजा नाभ्यभाषत किंचन
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः। नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च। युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्। उन्मत्तवदनुन्मत्ता देवने कृतचेतसम्
भयशोकसमाविष्टा राजन्भीमसुता ततः। चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्। नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम्। हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम्
बृहत्सेने व्रजामात्यानानाय्य नलशासनात्। आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु
इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर। उवाच देव्या वचनं मन्त्रिणां सा समीपत
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्। अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन्
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः। न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा। दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान्। नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह