देवानां मानुषं मध्ये यत्सा पतिमविन्दत। ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः। अस्माभिः सभनुज्ञाते दमयन्त्या नलो वृतः
का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम्। यो वेद धर्मानखिलान्यथावच्चरितव्रतः
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्। अहिंसानिरतो यश्च सत्यवादी दृढव्रतः
यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः। ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे
एवंरूपं नलं यो वै कामयेच्छपितुं कले। आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना
एवंगुणं नलं यो वै कामयेच्छपितुं कले। कृच्छ्रे स नरके मञ्जेदगाधे विपुले ह्रदे
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः। ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर। भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि। `मम प्रियकृते ह्यस्मन्कृतवांश्च भविष्यसि
एवं स समयं कृत्वा द्वापरेण कलिः सह। आजगाम ततस्तत्र यत्रराजा स नैषधः
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्। अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्
कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः। अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्
स समाविश्य च नलं समीपं पुष्करस्य च। गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै
अक्षद्यूते नलं जेता भवान्हि सहितो मया। निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्। कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात्
आसाद्य तु नलं वीरं पुष्करः परवीरहा। दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः
न चक्षमे ततो राजा समाह्वानं महामनाः। वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत
ततः स राज्ञा सहसा देवितुं संप्रचक्रमे
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः।' हिरण्यस्य सुवर्णस्य यानयुग्यस् वाससाम्। आविष्टः कलिना द्यूते जीयते स्म नलस्तदा
तमक्षमदसंमत्तं सुहृदां न तु कश्चन। निवारणेऽभवच्छक्तो दीव्यमानमरिंदमम्
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत। राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्। एष पौरजनो देवि द्वारि तिष्ठति कार्यवान्
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः। अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच नैषधं भैमी शोकोपहतचेतना
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः। `वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम्।' तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम्। आविष्टः कलिना राजा नाभ्यभाषत किंचन
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः। नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च। युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत