सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत। नैषधं वरयामास भैमी धर्मेण पाण्डव
विलज्जमाना वस्त्रान्तं जग्राहायतलोचना। स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्
वरयामास चैवैनं पतित्वे वरवर्णिनी। ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः
देवैर्महर्षिभिस्तत्र साधुसाध्विति भारत। विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्
दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः। आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना
यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ। तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम्
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते। तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते
दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान्। तानेव शरणं देवाञ्जग्मतुर्मनसा तदा
वृते तु नैषधे भैम्या लोकपाला महौजसः। प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्। नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः। लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्। अपांपतिरपां भावं यत्रवाञ्छति नैपधः ।। स्रजश्चोत्तमगन्धाढ्याः सर्वेच मिथुनं ददुः
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः। `एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत। यथा स्वप्नं महाराज तथैव ददृशुर्जनाः
ततः स्वयवरं चक्रे भीमो राजाऽतिमानुषम्। समागतेषु सर्वेषु भूपालेसु विशांपते
दमयन्त्यपि तद्दृष्ट्वाराजमण्डलमृद्धिमत्। अन्वीक्ष्यनैषधं वव्रे भैमी धर्मेण भारत
वृते च नैषधे भैम्या निवृत्ते च स्वयंवरे। सर्व एव महीपालाः प्रतिजग्मुर्यथागतम्
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः। दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम्
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः। विवाहं कारयामास दमयन्त्या नलस्य च
उष्य तत्र तथाकामं नैषधो द्विपदांवरः। भीमेन समनुज्ञातो जगाम नगरं स्वकम्। अवाप्य नारीरत्नं तु पुण्यश्लोकोपि पार्थिवः
रेमे सह तया राजञ्छच्येव बलवृत्रहा। अतीव मुदितो राजा भ्राजमानोंशुमानिव
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्। ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः। अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः
पुगश्च रमणीयेषु वनेषूपवनेषु च। दमयन्त्या सह नलो विजहारामरोपमः
जनयामास च ततो दमयन्त्यां महामनाः। इन्द्रसेनं सुतं चापि इन्द्रसेनां चकन्यकाम्
एवं स यजमानश्च विहरंश्च नराधिपः। ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः
वृते तु नैषधे भैम्या लोकपाला महौजसः। यान्तो ददृशुरायान्तं द्वापरं कलिना सह
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा। द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्। गत्वा हि वरयिष्ये तां मनो हि मम तां गतम्
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः। वृतस्तया नलो राजा पतिरस्मत्समीपतः
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः। देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा