सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः। विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः
वर्ण्यमानेषु च मया भवत्सु रुचिराननां। मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः। त्वया सह नरव्याघ्र मम यत्रस्वयंवरः
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध। एवं तव महाबाहो दोषो न भवितेति ह
एतावदेव विबुधा यथावृत्तमुपाहृतम्। मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः
अथ काले शुभे प्राप्ते तथौ पुण्ये क्षणे तथा। आजुहाव महीपालान्भीमो राजा स्वयंवरे
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः। त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः
कनकस्तम्भरुचिरं तोरणेन विराजितम्। विविशुस्ते नृपा रङ्गं महासिंह इवाचलम्
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः। सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः
संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव। `प्रविवेश नलो देवैः पुण्यश्लोको नराधिप
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः। आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः
सुकेशान्तानि चारूणि सुनासानि शुभानि च। मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि
दमयन्ती ततो रङ्गं प्रविवेश शुभानना। मुष्णन्ती प्रभया राज्ञां चक्षूषि च मनांसि च
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्। तत्रतत्रैव सक्ताऽभून्न चचाल च पश्यताम्
ततः संकीर्त्यमानेषु राज्ञां नामसु भारत। ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्। संदेहादथ वेदर्भी नाभ्यजानान्नलं नृपम्
निर्विशेषवयोवेषरूपाणां तत्र सा शुभा।' यंयं हि ददृशे तेषां तंतं मेने नलं नृपम्। साचिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्। एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता
श्रुतानि देवलिङ्गानि तर्कयामास भारत। देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये। एवं विचिन्त्य बहुधा विचार्य च पुनः पुनः
शरणं प्रति देवानां प्राप्तकालममन्यत। वाचा च मनसा चैव नमस्कारं प्रयुज्य सा
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्। हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः। पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे
मनसा वचसा चैव यथा नातिचराम्यहम्। तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे
यथा देवैः स मे भर्ता विहितो निषधाधिषः। तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे
यथेदं व्रतमारब्धं नलस्याराधने मया। तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे
स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः। यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम्
निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम्। निश्चयंपरमं तथ्यमनुरागं च नैषधे
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे। यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे
साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्। अम्लानस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः। भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः