विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युच्छति। त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा। भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै
य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः। हुताशमीशं देवानां का तं न वरयेत्पतिम्
यस् दण्डभयात्सर्वे भूतग्रामाः समागताः। धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम्
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम्। महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम्
क्रियतामविशङ्केन मनसा यदि मन्यसे। वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु
नैषधेनैवमुक्ता सा दमयन्ती बचोऽब्रवीत्। समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा
देवेभ्योऽहं नमस्कृत् यसर्वेभ्यः पृथिवीपते। वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते
तामुवाच ततो राजा वेषमानां कृताञ्जलिम्। दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितं
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः। परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे
एष धर्मो यदि स्वार्थो ममापि भविता ततः। एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्
ततो बाष्पाकुलांवाचं दमयन्ती शुचिस्मिता। प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर। येन दोषो न भविता तव राजन्कथंचन
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः। आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर। वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति
एवमुक्तस्तु वैदर्भ्या नलो राजा विशंपते। आजगाम पुनस्तत्र यत्र देवाः समागताः
तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः। दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम्
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता। किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्। प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः। ऋते तां पार्तिवसुतां भवतामेव तेजसा
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः। विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः
वर्ण्यमानेषु च मया भवत्सु रुचिराननां। मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः। त्वया सह नरव्याघ्र मम यत्रस्वयंवरः
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध। एवं तव महाबाहो दोषो न भवितेति ह
एतावदेव विबुधा यथावृत्तमुपाहृतम्। मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः
अथ काले शुभे प्राप्ते तथौ पुण्ये क्षणे तथा। आजुहाव महीपालान्भीमो राजा स्वयंवरे
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः। त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः
कनकस्तम्भरुचिरं तोरणेन विराजितम्। विविशुस्ते नृपा रङ्गं महासिंह इवाचलम्
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः। सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः
संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव। `प्रविवेश नलो देवैः पुण्यश्लोको नराधिप