एवमुक्ते नैषधेन मघवानभ्यभाषत। अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्
अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः। शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव
त्वं वै समागतानस्मान्दमयन्त्यै निवेदय। लोकपाला महेन्द्राद्याः समायान्ति दिदृक्षवः
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः। तेषामन्यतमं देवं पतित्वे वरयस्व ह
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्। एकार्थसमवेतं मां न प्रेषयितुमर्हथ
कथ हि जातसंकल्पः स्त्रियमुत्सृजते पुमान्। परार्थमीदृशं वक्तं तद्वै पश्यामरेश्वर
एवमुक्तो नैषधेन मघवान्पुनरब्रवीत्।' करिष्य इतिसंश्रुत्य पूर्वमस्मासु नैषध। न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम्
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय। श्रेयसा योक्ष्यसे हि त्वं कुर्वन्नमरशासनम्
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्। सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत। जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्
ददर्श तत्र वैदर्भीं सखीगणसमावृताम्। देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्। आक्षिपन्तीमिव च तां शशिनं स्वेन तेजसा
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्। सत्यं चिकीर्षमाणस्तुधारयामास हृच्छयम्
ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः। आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः
प्रशशंसुश्च मुप्रीता नलं ता विस्मयान्विताः। न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन्
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः। कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति
न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन। तेजसा धर्षितास्तस्य लज्जावत्यो वराङ्गनाः
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी। दमयन्ती नलं वीरमभ्यभाषत विस्मिता
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन। प्राप्तोस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ
कथमागमनं चेह कथं चासि न लक्षितः। सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह। नलं मां विद्धि कल्याणि देवदूतमिहागतम्
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः। तेषामन्यतमं देवं पतिं वरय शोभने
तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः। प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत्
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः। एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्। प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचना। तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर
हंसानां वचनं यत्तु तन्मां दहति पार्थिव। त्वत्कृते हि मया वीर राजानः सन्निपातिताः
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद। विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह। तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि
येषामहं लोककृतामीश्वराणां महात्मनाम्। न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्