विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ। अहं संजीवयाम्येनं पश्यतस्ते भुजंगम
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत्
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनं च तथा विटपिनं पुनः
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्
विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्। निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत्
धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम। ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः। प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान्
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्। निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्। अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः
मया वञ्चयितव्योऽसौ क उपायो भवेदिति। ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च। तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्। गतेषु तेषु नागेषु तापसच्छद्मरूपिषु
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः। भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः
तापसैरुपनीतानि फलानि सहिता मया। ततो राजा ससचिवः फलान्यादातुमैच्छत
विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु। यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम्
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः। ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्। अस्तमभ्येति सविता विषादद्य न मे भयम्
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्। तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः। एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः। प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम्। वेष्टयित्वा च भोगेन विनद्य च महास्वनम्। अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्। विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः