न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्। न नक्तं न दिवा शेते हाहेति रुदती मुहुः
तामस्वस्थां तदाकारां सख्यस्ता जज्ञिरिङ्गितैः
ततो विदर्भपतये दमयन्त्याः सखीजनः। न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरः
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्। किमर्थं दुहिता मेऽद्यनातिस्वस्थेव लक्ष्यते
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्। अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्
स सन्निपातयामास महीपालान्विशांपतिः। एषोऽनुभूयतां चीराः स्वयंवर इति प्रभो
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्। अभिजग्मुस्ततो वीरा राजानो भीमशासनात्
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम्। विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम्। यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ। अटमानौ महात्मानाविन्द्रलोकमितो गतौ
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ। देवराजस् भवनं विविशाते सुपूजितौ
तावर्चयित्वा मघवा ततः कुशलमव्ययम्। पप्रच्छानामयं चापि तयोः सर्वगतं विभुः
आवयोः कशलं देव सर्वत्रगतमीश्वर। लोके च मघवन्कृत्स्नो नृपाः कुशलिनो विभो
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा। धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः
शस्त्रेण निधनं काले ये गच्छन्त्यपराड्युखाः। अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्
क्वनु ते क्षत्रियाः शूरा नहि पश्यामि तानहम्। आगच्छतो महीपालान्दयितामनिथीन्मम
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत। शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता। रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः
तस्याः स्वयंवरः शक्र भविता नचिरादिव। तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः। काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः। आजग्मुर्देवराजस्य समीपममरोत्तमाः
ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत्। श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत
ततः सर्वे महाराज सगणाः सहवाहनाः। विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः
नलोपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्। अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः
अथ देवाः पथि नलं ददृशुर्भूतले स्तितम्। साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्। तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः। अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात्
भोभो निषधराजेन्द्र नल सत्यव्रतो भवात्। अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत। अथैतान्परिपप्रच्छ कृताञ्जलिरुपस्थितः
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः। किंच तत्रमया कार्यं कथयध्वं यथातथम्