तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान्। अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः
अशक्नवन्नलः कामं तदा धारयितुं हृदा। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः
स ददर्शै ततो हंसाञ्जातरूपपरिच्दान्। वने विचरतां तेषामेकं जग्राह पक्षिणम्
ततो।डन्तरिक्षगो वाचं व्याजहार नलं तदा। हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम्
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध। यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्
तव चैव यथा भार्या भविष्यति तथाऽनघ। विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान्
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः। ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता। हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे
अथ हंसा विससृपुः सर्वतः प्रमदावने। एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन्
दमयन्ती तु यं हंसं समुपाधावदन्तिके। स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्
दमयन्ति नलो नाम निषधेषु महीपतिः। अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः
[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्।] तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि। सफलंते भवेज्जन्म रूपं चेदं सुमध्यमे
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्। दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः। विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्
एवमुक्ता तु हंसेन दमयन्ती विशांपते। अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशांपते। पुनरागम्य निषधान्नले सर्वं न्यवेदयत्
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत। तदा प्रभृति न स्वस्था नलं प्रति बभूव सा
ततश्चिन्तापरा दीना विवर्णवदना कृशा। बभूवदमयन्ती तु निःश्वासपरमा तदा
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना। पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्। न नक्तं न दिवा शेते हाहेति रुदती मुहुः
तामस्वस्थां तदाकारां सख्यस्ता जज्ञिरिङ्गितैः
ततो विदर्भपतये दमयन्त्याः सखीजनः। न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरः
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्। किमर्थं दुहिता मेऽद्यनातिस्वस्थेव लक्ष्यते
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्। अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्
स सन्निपातयामास महीपालान्विशांपतिः। एषोऽनुभूयतां चीराः स्वयंवर इति प्रभो
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्। अभिजग्मुस्ततो वीरा राजानो भीमशासनात्
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम्। विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम्। यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ। अटमानौ महात्मानाविन्द्रलोकमितो गतौ