तं स भीमः प्रजाकामस्तोषयामास धर्मवित्। महिष्या सह राजेनद्र सत्कारेण सुवर्चसम्
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ। कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्। उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया। सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा
अथ तां वयसि प्राप्ते दासीनां समलंकृतम्। शतं सखीनां च तदा पर्युपास्ते शचीमिव ।। [शतं शतं सखीनां च पर्युपासच्छचीमिव ।।]
तत्र स्म राजते भैमी सर्वाभरणभूषिता। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा
अतीव रूपसंपन्ना श्रीरिवायतलोचना। न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता। चित्तप्रमाथिनी बाला देवानामपि सुन्दरी
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि। कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम्
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्। नैषधस्य समीपे तु दमयन्तीं पुनः पुनः
तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान्। अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः
अशक्नवन्नलः कामं तदा धारयितुं हृदा। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः
स ददर्शै ततो हंसाञ्जातरूपपरिच्दान्। वने विचरतां तेषामेकं जग्राह पक्षिणम्
ततो।डन्तरिक्षगो वाचं व्याजहार नलं तदा। हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम्
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध। यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्
तव चैव यथा भार्या भविष्यति तथाऽनघ। विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान्
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः। ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता। हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे
अथ हंसा विससृपुः सर्वतः प्रमदावने। एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन्
दमयन्ती तु यं हंसं समुपाधावदन्तिके। स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्
दमयन्ति नलो नाम निषधेषु महीपतिः। अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः
[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्।] तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि। सफलंते भवेज्जन्म रूपं चेदं सुमध्यमे
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्। दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः। विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्
एवमुक्ता तु हंसेन दमयन्ती विशांपते। अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशांपते। पुनरागम्य निषधान्नले सर्वं न्यवेदयत्
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत। तदा प्रभृति न स्वस्था नलं प्रति बभूव सा
ततश्चिन्तापरा दीना विवर्णवदना कृशा। बभूवदमयन्ती तु निःश्वासपरमा तदा
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना। पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना