आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम्। पणे च मम नात्यर्थं वसु किंचन विद्यते
एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम्। न मत्तो दुःखिततरः पुमानस्तीह कश्चन
नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि। भवता दृष्टपूर्वो वा श्रुतपूर्वोपि वा क्वचित्। न मत्तो दुःखिततरः पुमानस्तीति मे मतिः
एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः। शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः
न विषादे मनः त्वया बुद्धिमतांवर। आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते
यद्ब्रवीषि महाराज न मत्तो विद्ते क्वचित्। अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव
अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ। यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति। इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम्
शृणु राजन्नवहितः सह भ्रातृभिरच्युत। यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवोपते
निषधेषु महीपालो वीरसेन इति श्रुतः। तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्तकोविदः
स निकृत्याजतो राजा पुष्करेणेति नः श्रुतम्। वनवासं सुदुःखार्तो भार्यया न्यवसत्सह
न तस्य दासा न रथो न भ्राता न च भान्धवाः। वने निवसतो राजन्नश्रूयन्त कदाचन
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः। ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम्
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः। चरितं वदतांश्रेष्ठ तन्ममाख्यातुमर्हसि
आसीद्राजा नलो नाम वीरसेनसुतो बली। उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः
यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः'। अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा। उपर्युपरि सर्वेषामादित्य इव तेजसा
ब्रह्मण्यो वेदविच्छ्ररो निषधेषु महीपतिः। अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः
ईप्सितो नरनारीणामुदारः संयतेन्द्रियः। रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः। शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः। तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत
तं स भीमः प्रजाकामस्तोषयामास धर्मवित्। महिष्या सह राजेनद्र सत्कारेण सुवर्चसम्
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ। कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्। उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया। सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा
अथ तां वयसि प्राप्ते दासीनां समलंकृतम्। शतं सखीनां च तदा पर्युपास्ते शचीमिव ।। [शतं शतं सखीनां च पर्युपासच्छचीमिव ।।]
तत्र स्म राजते भैमी सर्वाभरणभूषिता। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा
अतीव रूपसंपन्ना श्रीरिवायतलोचना। न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता। चित्तप्रमाथिनी बाला देवानामपि सुन्दरी
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि। कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम्
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्। नैषधस्य समीपे तु दमयन्तीं पुनः पुनः