यज्ञैश्च विविधैस्तात कृतंपापमरिंदम। अवधूय महाराजगच्छेम स्वर्गमुत्तमम्
एवमेतद्भवेद्राजन्यदि राजा न बालिशः। अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः
निकृत्या निकृतिप्रत्रा हन्तव्या इति निश्चयः। न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते। तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते
अहोरात्रं महाराज तुल्यं संवत्सरेण ह। तथैव वेदवचनं श्रूयते नित्यदा विभो। संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत। तयोदशादितः कालो ज्ञायतां परिनिष्ठितः
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम। एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः
द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम्। प्रायेणाज्ञातच्रयायां वयं सर्वेनिपातिताः
न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः। न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः
अधिगम्य च सर्वान्नो वनवासमिमं ततः। प्रव्राजयिष्यतिपुनर्निकृत्याऽधमपूरुषः। यद्यस्मानभिगच्छेत पापः स हि कथंचन
अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत्। द्यूतेन ते महाराज पुनर्युद्धं प्रवर्तते
भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति। स तथाऽक्षेषु कुशलो निश्चितो गतचेतनः
चरिष्यसि महाराज वनेषु वसतीः पुनः
यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि। यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः। निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः
अनुज्ञातस्त्वया गत्वायावच्छक्ति सुयोधनम्। यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः। हनिष्यामि तथा मन्दमनुजानातु मे भवान्
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः। उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम्
असशयं महाबाहो हनिष्यसि सुयोधनम्। वर्षात्रयोदशादूर्ध्वं सह गाण्डीवधन्वना
यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो। अनृतं नत्सहे वक्तुं न ह्येतन्मयि विद्यते
अन्तरेणापि कौन्तेय निकृतिंपापनिश्चयम्। हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम्
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे। आजगाम महाभागो बृहदश्वो महानृषिः
तमभिप्रेक्ष्यधर्मात्मा संप्राप्तं धर्मचारिणम्। शास्त्रवन्मधुपर्केण पूजयामास धर्मराट्
आश्वस्तं चैनमासीनमुपासनो युधिष्ठिरः। अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत
अक्षद्यूते च भगवन्धनं राज्यं च मे हृतम्। आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः। भार्या च मे सभां नीता प्राणेभ्योपि गरीयसी
पुनर्द्यूतेन मां जित्वा वनवासां सुदारुणम्। प्राव्राजयन्मंहारण्यमजिनैः परिवारितम्
अहं वने दुर्वसतीर्वसन्परमदुःखितः। अक्षद्यूताभिषङ्गेण गिरः शृण्वन्सुदारुणाः
आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम्। अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन्
यस्मिंश्च वयमायत्ताः सदा गाण्डीवधन्वनि। `स चेन्द्रलोकं गतवानस्त्रहेतोर्महाबलः
विना महात्मना तेन गतसत्व इवास्महे। कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम्
इति सर्वे महेष्वासं चिन्तयाना धनंजयम्। अनेन तु विषण्णोऽहं कारणेन सहानुजः
वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः। जानन्तः प्रीयमाणा वै देवने भ्रातृभिः सह। द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः