ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा। मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा। उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले। क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्
परिक्लिष्टाऽसियैस्तत्रयैश्चासि समुपेक्षिता। तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्
एवं बहुविधा वाचस्त ऊचुः पुरुषर्षभाः। सर्वेतेजस्विनः शूराः सर्वेचाहतलक्षणाः
ते धर्मराजेन वृतावर्षादूर्ध्वं त्रयोदशात्। पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः
रामश्च कृष्णश्च धनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ। माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह मत्स्यराज्ञा
एतान्सर्वाल्लोँकवीरानजेया- न्महात्मनः सानुबन्धान्ससैन्यान्। को जीवितार्थी समरेऽभ्युदीया- त्क्रुद्धान्सिंहान्केसरिणो यथैव
यन्माऽब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेषय्सि चेन्नरेन्द्र। ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौधः
मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम्। असंशयं भविता युद्धमेत- द्गते काले पाण्डवानां यथोक्तम्
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः
ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले। दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया
धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः। तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे
धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः। अथ भीमो महाबाहुर्युधिष्ठिरमभाषत
निदेशात्ते महाराज गतोऽसौ भरतर्षभः। अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्। सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयाः
योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन्। भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः। मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः। `जितान्मन्यामहे सर्वान्धार्तराष्ट्रात्ससौबलान्
यस्य प्रभावान्न मया सभामध्ये महाबलाः'। नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः
तेवयं बाहुबलिनः क्रोधमुत्थितमात्मनः। सहामहे भवन्मूलं वासुदेवेन पालिताः
मया हि सह कृष्णेन हत्वा कर्णमुखान्परान्। स्वबाहुविजितां कृत्स्नां प्रशाधीनां वसुंधराम्
भतो द्यूतदोषेण सर्वेवयमुपप्लुताः। अहीनपौरुषा राजन्बलिभिर्बलवत्तराः
क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि। ग हिधर्मो महाराज त्रियस्य वनाश्रयः
राज्यमेव परंधर्मं क्षत्रियस्य विदुर्बुधाः। स क्षत्रधर्मविद्राजन्माधर्म्यान्नीनशः पथः
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि। निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम्
व्यूढानीकान्महाराज जवेनैव महाहवे। धार्तराष्ट्रानमुं लोकं गमयाम विशांपते
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान्। दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते
मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः। एवं कृते न ते दोषो भविष्यति विशांपते