सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी। आदाय जीवितं तेषामाहरिष्यामि तामहम्
रामेण सह कौरव्य भीमार्जुनवयैस्तथा। अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च। दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत। दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्। धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमां
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे। शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन। अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि
वर्षात्रयोदशादूर्ध्वं सत्यं मां कुरु केशव। प्रतिज्ञातो वने वासो राज्ञांमध्ये मया ह्ययम्
धर्मराजस्य वचनं प्रतिश्रुत्य सभासदः। धृष्टद्युम्नपुरोगास्ते समयामासुऱञ्जसा
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्। पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्। प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि
ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा। मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा। उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले। क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्
परिक्लिष्टाऽसियैस्तत्रयैश्चासि समुपेक्षिता। तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्
एवं बहुविधा वाचस्त ऊचुः पुरुषर्षभाः। सर्वेतेजस्विनः शूराः सर्वेचाहतलक्षणाः
ते धर्मराजेन वृतावर्षादूर्ध्वं त्रयोदशात्। पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः
रामश्च कृष्णश्च धनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ। माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह मत्स्यराज्ञा
एतान्सर्वाल्लोँकवीरानजेया- न्महात्मनः सानुबन्धान्ससैन्यान्। को जीवितार्थी समरेऽभ्युदीया- त्क्रुद्धान्सिंहान्केसरिणो यथैव
यन्माऽब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेषय्सि चेन्नरेन्द्र। ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौधः
मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम्। असंशयं भविता युद्धमेत- द्गते काले पाण्डवानां यथोक्तम्
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः
ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले। दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया
धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः। तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे
धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः। अथ भीमो महाबाहुर्युधिष्ठिरमभाषत
निदेशात्ते महाराज गतोऽसौ भरतर्षभः। अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्। सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयाः
योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन्। भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः। मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः। `जितान्मन्यामहे सर्वान्धार्तराष्ट्रात्ससौबलान्