पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान्। पुरोष कौरवश्रेष्ठो धर्मेराजो युधिष्ठिरः
पतीश्च द्रौपदी सर्वाञ्द्विजातीश्च यशस्विनी। मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथवाऽप्युदीचीम्। धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य
तथा तेषां कवसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम्। पञ्चैव वर्षाणि तथा व्यतीयु- रथीयतां जपतां जुह्वतां च
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्। चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः। अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वैक्षणम्। संचिन्त्य दुर्णयं घोरमतीतं द्यूतजं हि तत्
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम्। अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम्
देवपुत्रौ महाभागौ देवराजसमद्युती। नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ। शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि। स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ
निःशेषमिह पश्यामि मम सैन्यस्य संजय
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ। द्रौपद्यास्तं परिक्लेशं न क्षंस्येतेऽत्यमर्षिणौ
वृष्णयोऽथ महेष्वासाः पाञ्चाला वा महौजसः। युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः। प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन। न शक्यः सहितुं वेगः पर्वतैरपि दुःसहः
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः। शैक्यया वीरघातिन्या गदया विचरिष्यति
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः। स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः। समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः
श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः। त्वरितः कामय्के पार्थान्समभावयदच्युतः
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः। विराटो धृष्टकेतुश्च केकयाश्च महारथाः
तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान्। चारेण विदितं सर्वं तन्मया वेदितं च ते
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः। सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः
अमर्षितो हि कृष्णोपि दृष्ट्वा पार्थांस्तदा गतान्। कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम्
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह। राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा
यत्रसर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्। सवङ्गाङ्गान्सपौण्ड्रौढ्रान्सचोलद्रविडान्ध्रकान्
सागरानूपकांश्चैव ये च पत्तनवासिनः। सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः
पश्चिमानि चराष्ट्राणि शतशः सागरान्तिकान्। पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान्
हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा। जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान्
केकयान्मालवांश्चैव तथा काश्मीरकानपि। अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान्