सर्वे प्रहरतां श्रेष्ठाः सर्वेचामिततेजसः। सर्वेसर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे। अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः
किं कृतं सूत कर्णेन वदता परुषं वचः। पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः। येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते
ममापि वचनं सूत न शुश्रूषति मन्दभाक्। दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः। ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः
स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा। निर्दहेयुर्मम सुतान्किंपुनर्मन्युनेरिताः
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः। दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः। हनिस्त्रैलोक्यनाथः स किंनु तस् न निर्जितम्
इदं हि सुमहच्चित्रमर्जुनस्येह संजय। महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा। फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च
सर्वथा न हि मे पुत्राः सहामात्याः सबान्धवाः। क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने। प्रव्राज्यपाण्डवान्वीरान्सर्वमेतन्निर्रथकम्
कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम्। दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्। वन्यं वाऽप्यवा कृष्टमेतदाख्यातु नो भवान्
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्। ब्राह्मणानां निवेद्याग्रमभुञ्जता महारथाः
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने। अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्। दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान्। बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत्
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते। कृशो वा दुर्बलो वाऽपि दीनो भीतोपि वा पुनाः
पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान्। पुरोष कौरवश्रेष्ठो धर्मेराजो युधिष्ठिरः
पतीश्च द्रौपदी सर्वाञ्द्विजातीश्च यशस्विनी। मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथवाऽप्युदीचीम्। धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य
तथा तेषां कवसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम्। पञ्चैव वर्षाणि तथा व्यतीयु- रथीयतां जपतां जुह्वतां च
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्। चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः। अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वैक्षणम्। संचिन्त्य दुर्णयं घोरमतीतं द्यूतजं हि तत्
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम्। अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम्
देवपुत्रौ महाभागौ देवराजसमद्युती। नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ। शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ