रक्षां च विदधे तत्र भिषजश्चौषधानि च। ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः। मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः
न चैनं कश्चिदारूढं लभते राजसत्तमम्। वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः। काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्। तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्। क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्। तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम्। पाण्डवानां कुलकरं राजानममितौजसम्। गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम्
विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः। अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्। निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्। करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता
यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिमं जीवय काश्यप
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम। `पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना। आशीविषविषोपेतः प्रजज्वाल समन्ततः
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम्
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ। अहं संजीवयाम्येनं पश्यतस्ते भुजंगम
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत्
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनं च तथा विटपिनं पुनः
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्
विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्। निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत्
धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम। ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम