घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः। अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः
भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम्। सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः। वधे नूनं भवेच्छान्तिरेतेषां फल्गुनस्य वा
न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते। मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्। जिगा पार्थिवान्सर्वान्राजसूये महाक्रतौ
शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि संजय। न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना
यथा हि किरणा भानोस्तपन्तीह चराचरम्। तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मत्सुतान्
अपि तद्रथघोषेण भयार्था सव्यसाचिनः। प्रतिभाति विदीर्णेव सर्वतो भारती चमूः
समुद्धरन्प्रवपंश्चैव बाणान् स्ताताऽऽततायी समरे किरीटि। सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदवारणीयः
यदतत्कथितं राजंस्त्वया दुर्योधनं प्रति। सर्वमेतद्यथातत्त्वं नतु मिथ्या महीपते
मन्युना हि समाविष्टाः पाण्डवास्त्वमितौजसः। दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीं
दुःशासनस्य ता वाचः श्रुत्वा वै कटुकोदयाः। कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः
श्रुतं हि ते महाराज यथा पार्थेन संयुगे। एकादशतनुः स्थाणुर्धेनुषा परितोषितः
कैरातं वेषमास्थाय योधयामास फल्गुनम्। जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम्
लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः।' तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्। अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्
नैतदुत्सहते चान्यो लब्धुमन्यत्र फल्गुनात्। साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्। कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान्
आसादितमिदं घोरं तुमुलं रोमहर्षणम्। द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्
यत्र विस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत्। दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ
ऊरुं भेत्स्यामि ते पाप गदया वज्रकल्पया। त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः
सर्वे प्रहरतां श्रेष्ठाः सर्वेचामिततेजसः। सर्वेसर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे। अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः
किं कृतं सूत कर्णेन वदता परुषं वचः। पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः। येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते
ममापि वचनं सूत न शुश्रूषति मन्दभाक्। दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः। ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः
स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा। निर्दहेयुर्मम सुतान्किंपुनर्मन्युनेरिताः
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः। दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः। हनिस्त्रैलोक्यनाथः स किंनु तस् न निर्जितम्
इदं हि सुमहच्चित्रमर्जुनस्येह संजय। महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः