सवाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः। नोत्कणअठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति
नाशुद्बाहुवीर्येण नाकृतास्त्रेण वा रणे। भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः। नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान्
भवानपि विविक्तानि तीर्थानि मनुजेश्वर। भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः। राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मपः
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम्। त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः
गिरिदुर्गेषु च सदा देशेषु विषमेषु च। वसन्ति रासा रौद्रास्तेभ्योरक्षां विधास्यति
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम्। उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम्
[यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम। दानं दद्याद्यथा चैव तथा कुरु महामुने ।।]
तथेति संप्रतिज्ञाय लोमशः सुमहातपाः। कामय्कं वनमुद्दिश्य समुपायान्महीतलम्
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम्। तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम्
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः। धृतराष्ट्रो महातेजाः श्रुत्वा तत्र किमब्रवीत्
शक्रलोकगतं पार्थं श्रुत्वा राजाऽम्बिकासुतः। द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत्
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस् धीमतः। कच्चित्तवापि विदितं याथातथ्येन सारथे
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः। मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः। त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्। नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः
मम पुत्रा दुरात्मानः सर्वे मृत्युवशंगताः। येषां युद्धं दुराधर्षैः पाण्डवैः समुपस्थितम्
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे। महान्स्यात्संशयोलोके न तु पश्यामि नो जयम्
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः। अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः
भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम्। सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः। वधे नूनं भवेच्छान्तिरेतेषां फल्गुनस्य वा
न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते। मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्। जिगा पार्थिवान्सर्वान्राजसूये महाक्रतौ
शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि संजय। न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना
यथा हि किरणा भानोस्तपन्तीह चराचरम्। तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मत्सुतान्
अपि तद्रथघोषेण भयार्था सव्यसाचिनः। प्रतिभाति विदीर्णेव सर्वतो भारती चमूः
समुद्धरन्प्रवपंश्चैव बाणान् स्ताताऽऽततायी समरे किरीटि। सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदवारणीयः
यदतत्कथितं राजंस्त्वया दुर्योधनं प्रति। सर्वमेतद्यथातत्त्वं नतु मिथ्या महीपते