उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति। विप्रियेषु स्थिताऽस्माकं वरदानेन मोहिताः
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः। देवान्न गणयन्त्येते तथा दत्तवरा हि ते
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः। सर्वे देवनिकाया हि नालं योधयितुं हि तान्
योसौ भूमिगतः श्रीमान्विष्णुर्मुधुनिषूदनः। कपिलो नाम देवोसौ भगवानजितो हरिः
येन पूर्वंमहात्मानः खनमाना रसातलम्। दर्शनादेव निहताः सगरस्यात्मजा विभो
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम। पाथेन च महायुद्धे समेताभ्यामसंशयम्
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान्। निवातकवचान्सर्वान्नागानिव महाह्रदे
किंतु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः। तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत्
अयं तेषां समस्तानां शक्तः प्रतिसमासने। तान्निहत्यरणे शूरः पुनर्यास्यति मानुषान्
भवानस्मन्नियोगेन यातु तावन्महीतलम्। काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्
सवाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः। नोत्कणअठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति
नाशुद्बाहुवीर्येण नाकृतास्त्रेण वा रणे। भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः। नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान्
भवानपि विविक्तानि तीर्थानि मनुजेश्वर। भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः। राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मपः
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम्। त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः
गिरिदुर्गेषु च सदा देशेषु विषमेषु च। वसन्ति रासा रौद्रास्तेभ्योरक्षां विधास्यति
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम्। उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम्
[यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम। दानं दद्याद्यथा चैव तथा कुरु महामुने ।।]
तथेति संप्रतिज्ञाय लोमशः सुमहातपाः। कामय्कं वनमुद्दिश्य समुपायान्महीतलम्
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम्। तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम्
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः। धृतराष्ट्रो महातेजाः श्रुत्वा तत्र किमब्रवीत्
शक्रलोकगतं पार्थं श्रुत्वा राजाऽम्बिकासुतः। द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत्
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस् धीमतः। कच्चित्तवापि विदितं याथातथ्येन सारथे
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः। मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः। त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्। नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः
मम पुत्रा दुरात्मानः सर्वे मृत्युवशंगताः। येषां युद्धं दुराधर्षैः पाण्डवैः समुपस्थितम्
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे। महान्स्यात्संशयोलोके न तु पश्यामि नो जयम्