किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः। स एवमनुसंप्राप्तः स्थानं देवनमस्कृतम्
तस्य विज्ञाय संकल्पं शक्रो वृत्रविमर्दनः। लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः
देवर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्। नायं केवलमर्त्योऽभूत्क्षत्रियत्वमुपागतः
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः। अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात्
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्। शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम्
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। ताविमावभिजानीहि हृषीकेशधनंजयौ
विख्यातौ त्रिषु लोकेषु नरनारायणावृषी। कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम्
यन्न शक्यं शुरैर्द्रष्टुमृषिभिर्वा महात्मभिः। तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम्
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च। यतः प्रववृते गङ्गा सिद्धचारणसेविता
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती। भूमेर्भारावतरणं महावीर्यौ करिष्यतः
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति। विप्रियेषु स्थिताऽस्माकं वरदानेन मोहिताः
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः। देवान्न गणयन्त्येते तथा दत्तवरा हि ते
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः। सर्वे देवनिकाया हि नालं योधयितुं हि तान्
योसौ भूमिगतः श्रीमान्विष्णुर्मुधुनिषूदनः। कपिलो नाम देवोसौ भगवानजितो हरिः
येन पूर्वंमहात्मानः खनमाना रसातलम्। दर्शनादेव निहताः सगरस्यात्मजा विभो
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम। पाथेन च महायुद्धे समेताभ्यामसंशयम्
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान्। निवातकवचान्सर्वान्नागानिव महाह्रदे
किंतु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः। तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत्
अयं तेषां समस्तानां शक्तः प्रतिसमासने। तान्निहत्यरणे शूरः पुनर्यास्यति मानुषान्
भवानस्मन्नियोगेन यातु तावन्महीतलम्। काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्
सवाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः। नोत्कणअठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति
नाशुद्बाहुवीर्येण नाकृतास्त्रेण वा रणे। भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः। नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान्
भवानपि विविक्तानि तीर्थानि मनुजेश्वर। भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः। राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मपः
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम्। त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः
गिरिदुर्गेषु च सदा देशेषु विषमेषु च। वसन्ति रासा रौद्रास्तेभ्योरक्षां विधास्यति
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम्। उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम्
[यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम। दानं दद्याद्यथा चैव तथा कुरु महामुने ।।]
तथेति संप्रतिज्ञाय लोमशः सुमहातपाः। कामय्कं वनमुद्दिश्य समुपायान्महीतलम्