यथा कुन्ती च माद्री च शची चैव समा इह। तथा च वंशजननी त्वं हि मेऽद्य गरीयसी
गच्छ मूर्ध्ना प्रपन्नोस्मि पादौ ते वरवर्णिनि। त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया
ततोऽवधूता पार्थेन उर्वशी क्रोधमूर्च्छिता। वेपन्ती भ्रुकुटीकक्रा शशापाथ धनंजयम्
तव पित्राऽभ्यनुज्ञातां स्वयं च गृहमागताम्। यस्मान्मां नाभिनन्देथाः कामबाणवशंगताम्
तस्मात्त्वं नर्तकः पार्थ स्त्रीमध्ये मानवर्जितः। अपुंस्त्वेन च विख्यातः पण्ढवद्विचरिष्यसि
एवं दत्त्वाऽर्जुने शापं स्फुरितोष्ठी श्वसन्त्यथ। पुनः प्रत्यागता क्षिप्रमुर्वशी स्वं निवेशनम्
पार्थोपि लब्ध्वा शापं तं तां निशां दुःखितोऽवसम्। विवक्षुश्चित्रसेनाय प्रातः सर्वमहृष्टवत्
ततः प्रभाते विमले गन्धर्वाय यथातथम्। निवेदयामास तदा चित्रसेनाय पाण्डवः
तच्च सर्वं यथावृत्तं शापं चैव यथातथम्। अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः
तदा त्वानाय्य तनयं विविक्ते हरिवाहनः। सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत
सुपुत्राद्यपृथा तात त्वया पुत्रेण सत्तम। ऋषयोपि हि धैर्येण जिता वै ते महाभुज
यं च दत्तवती शापमुर्वशी तव मानद। स चापि तेऽर्थकृत्तात साधकश्च भविष्यति
अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ। वर्पे त्रयोदशे वीर तत्र त्वं गमयिष्यसि
तेन नर्तकवेपेण अपुंस्त्वेन तथैव च। वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि
एवमुक्तस्तु शक्रेण फल्गुनः परवीरहा। मुदं परमिकां लेभे न च शापं व्यचिन्तयत्
चित्रसेनेन सहितो गन्धर्वेण यशस्विना। रेमे स स्वर्गभवने पाण्डुपुत्रो धनंजयः
य इमां शृणुयान्नित्यं धृतिं पाण्डुसुतस्य वै। न तस्य कामः कामेषु पापकेषु प्रवर्तते
इदममरवरात्मजस्य घोरं सुचि चरितं विनिशाम्य फल्गुनस्य। व्यपगतमददम्भरागदोषा- स्त्रिदिवगताऽभिरमन्ति मानवेन्द्राः
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्। शक्रस्य मतमाज्ञाय पार्थमानर्चुर्जसा
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्। प्रवेशयामासुरथो पुरन्दरनिवेशनम्
एवं संपूजितो जिष्णुरुवास भवने पितुः। उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः
स शक्रहस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम्। अशनिं च महानादां मेघबृंहितलक्षणाम्
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः। पुरन्दरनियोगाच्च पञ्चाब्दमवसत्सुखम्
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते। नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि
वादित्रं दैवविहितं नृलके यन्न विद्ते। मदाज्ञया च कौन्तेय श्रेयो वै ते भविष्ति
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः। स तेन सह संगम्य रेमे पार्थो निरामयः
कदाचिदटमानस्तु महर्षिरथ लोमशः। जगाम शक्रभवनं पुरंदरदिदृक्षया
स समेत्य नमस्कृत्य देवराजं महामुनिः। ददर्शार्धासनगतं पाण्डवं वासवस्य हि
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे। निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्। कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान्