तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्। तदन्यथा न शक्यं च कर्तुं केनचिदप्युत
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्। ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः। पर्यतप्यत तत्पापं कृत्वा राजा महातपाः
तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा। भूय एवाभवद्राजा शोकसंतप्तमानसः
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च। पर्यतप्यत भूयोपि कृत्वा तत्किल्बिषं मुनेः
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत। अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्
ततस्तं प्रेषयामास राजा गौरमुखं तदा। भूयः प्रसादं भगवान्करोत्विह ममेति वै
श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा। समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः
तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा। मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः
संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित्। प्रासादं कारयामास एकस्तम्भं सुरक्षितम्
रक्षां च विदधे तत्र भिषजश्चौषधानि च। ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः। मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः
न चैनं कश्चिदारूढं लभते राजसत्तमम्। वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः। काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्। तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्। क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्। तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम्। पाण्डवानां कुलकरं राजानममितौजसम्। गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम्
विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः। अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्। निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्। करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता
यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिमं जीवय काश्यप
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम। `पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना। आशीविषविषोपेतः प्रजज्वाल समन्ततः
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम्
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्