ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः। भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता। अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना
उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम्। स शङ्कितमना राजन्प्रत्यगच्छत तां निशि
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृलोचनः। तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्
अभिवादये त्वां शिरसा प्रवराप्सरसांवरे। किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम्। किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः
अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी। गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम्
यथा मे चित्रसेनेन कथितं मनुजोत्तम। नत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता
उपस्ताने महेन्द्रस् वर्तमाने मनोरमे। तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः। समागमेऽश्विनोश्चैव वसूनां च नरोत्तम
महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च। सिद्धचारणयक्षेषु महोरगगणेषु च
उपविष्टेषु सर्वेषु स्थानमानप्रभावतः। ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु
वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन। दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन
सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह। त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान्
तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम्। तव पित्राऽभ्यनुज्ञाता गताः स्वनिलयान्सुराः
तथैवाप्सरसः सर्वाविशिष्टाः स्वगृहं गताः। अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः
ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम्। प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम्
त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि। प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह
शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम्। पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाऽब्रवीत्
ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ। तवान्तिकमनुप्राप्ता शुश्रूषितुमरिंदम
न केवलं हि चक्रेण प्रेषिता चाहमागता। चिराभिलषितो वीर ममाप्येष मनोरथः
तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जान्वितोऽर्जुनः। उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशोपमः
दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भामिनि। गुरुदारैः समाना मे निश्चयेन वरानने
[यथा कुन्तीमहाभागा यथेन्राणी शची मम। तथा त्वमपि कल्याणीनात्र कार्या विचारणा]
यच्चेक्षिताऽसि विस्पष्टं विशेषेण मया शुभे। तच्च मे कारणं सर्वं शृणु सत्येन सुस्मिते
इयं पौरववंशस् जननी सुदतीति ह। त्वामहं दृष्टवांस्तत्र विस्मयोत्फुल्ललोचनः
न मामर्हसि कल्याणि अन्यथा ध्यात्रमप्सरः। गुरोर्गरुतरा मे त्वं मम त्वं वंशवर्धिनी
अनावृताश्च सर्वाः स्म देवराजाभिनन्दन। गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि
पितरः सोदराः पुत्रा नप्तारो वा त्विहागताः। तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः
तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि। हृच्छयेन च संतप्तां भक्तां च भज मानद
शृणु सत्यंवरारोहे यत्त्वां वक्ष्याम्यनिन्दिते। शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः