मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा। केशपाशेन ललना गच्छमाना व्यराजत
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च। शशिनं वक्रचन्द्रेण साऽऽह्वयन्तीव गच्छती
दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ। गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः
स्तनोद्वहनसंक्षोभात्ताम्यमाना पदेपदे। त्रिवलीदामचित्रेण मध्येनातीव शेभिना
रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम्। मन्मथायतनं शुभ्रं रशनादामभूषितम्
ऋषीणामपि दिव्यानां मनोव्याघातकारणम्। सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत्
गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली। कूर्मपृष्ठोन्तौ चास्याः शोभेते किङ्किणीकिणौ
शीधुपानेन चाल्पेन तुष्टा च मदनेन च। विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत्
सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी। बब्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः
सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता। तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेन गच्छति
ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः। भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता। अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना
उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम्। स शङ्कितमना राजन्प्रत्यगच्छत तां निशि
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृलोचनः। तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्
अभिवादये त्वां शिरसा प्रवराप्सरसांवरे। किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम्। किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः
अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी। गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम्
यथा मे चित्रसेनेन कथितं मनुजोत्तम। नत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता
उपस्ताने महेन्द्रस् वर्तमाने मनोरमे। तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः। समागमेऽश्विनोश्चैव वसूनां च नरोत्तम
महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च। सिद्धचारणयक्षेषु महोरगगणेषु च
उपविष्टेषु सर्वेषु स्थानमानप्रभावतः। ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु
वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन। दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन
सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह। त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान्
तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम्। तव पित्राऽभ्यनुज्ञाता गताः स्वनिलयान्सुराः
तथैवाप्सरसः सर्वाविशिष्टाः स्वगृहं गताः। अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः
ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम्। प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम्
त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि। प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह
शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम्। पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाऽब्रवीत्
ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ। तवान्तिकमनुप्राप्ता शुश्रूषितुमरिंदम
न केवलं हि चक्रेण प्रेषिता चाहमागता। चिराभिलषितो वीर ममाप्येष मनोरथः