भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः। प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्तवान्। तव शक्राभ्यनुज्ञातः पादावद्यप्रपद्यताम्
एवमुक्ता स्मितं कृत्वा स्वात्मानं बहुमान्य च। प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता
यत्त्वस्य कथितः सत्यो गुणोद्देशस्त्वयाऽनघ। तं श्रुत्वाऽन्यं प्रियं नारी वृणुयात्किमतोऽर्जुनं
तस्य चाहं गुणौघेन फल्गुने जातमन्मथा। गच्छत्वं हि याथाकाममागमिष्याम्यहं सुखम्
ततो विसृज्यगन्धर्वं कृतकृत्या शुचिस्मिता। उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा
स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः। धनंजयस्य रूपेण शरैर्मन्मथचोदितैः
अतिविद्धेन मनसा मन्मथेन प्रदीपिता। दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे
चित्तसंकल्पभावेन सुचित्ताऽनन्यमानसा। मनोरथेन संप्राप्तं रमयन्तीव फल्गुनम्
निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे। प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत्
मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा। केशपाशेन ललना गच्छमाना व्यराजत
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च। शशिनं वक्रचन्द्रेण साऽऽह्वयन्तीव गच्छती
दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ। गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः
स्तनोद्वहनसंक्षोभात्ताम्यमाना पदेपदे। त्रिवलीदामचित्रेण मध्येनातीव शेभिना
रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम्। मन्मथायतनं शुभ्रं रशनादामभूषितम्
ऋषीणामपि दिव्यानां मनोव्याघातकारणम्। सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत्
गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली। कूर्मपृष्ठोन्तौ चास्याः शोभेते किङ्किणीकिणौ
शीधुपानेन चाल्पेन तुष्टा च मदनेन च। विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत्
सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी। बब्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः
सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता। तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेन गच्छति
ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः। भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता। अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना
उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम्। स शङ्कितमना राजन्प्रत्यगच्छत तां निशि
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृलोचनः। तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्
अभिवादये त्वां शिरसा प्रवराप्सरसांवरे। किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम्। किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः
अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी। गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम्
यथा मे चित्रसेनेन कथितं मनुजोत्तम। नत्तेऽहं संप्रवक्ष्यामि यथा चाहमिहागता
उपस्ताने महेन्द्रस् वर्तमाने मनोरमे। तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः। समागमेऽश्विनोश्चैव वसूनां च नरोत्तम
महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च। सिद्धचारणयक्षेषु महोरगगणेषु च