गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसांवराम्। उर्वशीं पुरुषव्याघ्रं सोपातिष्ठतु फल्गुनम्
यथा न तामभिसृतां विद्यादस्मन्नियोगतः। तथा त्वया विधातव्यं स्त्रीसंसर्गविशारद
एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्। गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम्
तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया। सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत्
विदितं तेऽस्तु सुश्रोणि प्रेषितोऽहमिहागतः। त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना
यः स देवमनुष्येषु प्रख्यातः सहजैर्गुणैः। श्रिया शीलेन रूपेण श्रुतेन च बलेन च। प्रख्यातः शौर्यवीर्याभ्यां प्रपन्नः प्रतिभानवान्
तेजस्वी सौम्यीलश्च क्षमावाञ्जितमत्सरः। साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान्
योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम्। ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसाऽपि च
एको वै रक्षिता चैव त्रिदिवं मघवानिव। अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः
सुहृदश्चान्नपानेन विविधेनाभिवर्षति। सत्यवागूर्जितो वक्ता रूपवाननहंकृतः
भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः। प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्तवान्। तव शक्राभ्यनुज्ञातः पादावद्यप्रपद्यताम्
एवमुक्ता स्मितं कृत्वा स्वात्मानं बहुमान्य च। प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता
यत्त्वस्य कथितः सत्यो गुणोद्देशस्त्वयाऽनघ। तं श्रुत्वाऽन्यं प्रियं नारी वृणुयात्किमतोऽर्जुनं
तस्य चाहं गुणौघेन फल्गुने जातमन्मथा। गच्छत्वं हि याथाकाममागमिष्याम्यहं सुखम्
ततो विसृज्यगन्धर्वं कृतकृत्या शुचिस्मिता। उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा
स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः। धनंजयस्य रूपेण शरैर्मन्मथचोदितैः
अतिविद्धेन मनसा मन्मथेन प्रदीपिता। दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे
चित्तसंकल्पभावेन सुचित्ताऽनन्यमानसा। मनोरथेन संप्राप्तं रमयन्तीव फल्गुनम्
निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे। प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत्
मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा। केशपाशेन ललना गच्छमाना व्यराजत
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च। शशिनं वक्रचन्द्रेण साऽऽह्वयन्तीव गच्छती
दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ। गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः
स्तनोद्वहनसंक्षोभात्ताम्यमाना पदेपदे। त्रिवलीदामचित्रेण मध्येनातीव शेभिना
रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम्। मन्मथायतनं शुभ्रं रशनादामभूषितम्
ऋषीणामपि दिव्यानां मनोव्याघातकारणम्। सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत्
गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली। कूर्मपृष्ठोन्तौ चास्याः शोभेते किङ्किणीकिणौ
शीधुपानेन चाल्पेन तुष्टा च मदनेन च। विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत्
सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी। बब्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः
सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता। तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेन गच्छति