तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः। ततोऽपश्यद्देवराजं शतक्रतुमरिंदमः
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्। ददर्श साक्षाद्देवेशं पितरं पाकशासनम्
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा। दिव्यगन्धाधिवासेन व्यजनेन विधूयता
विश्वावसुप्रभृतिनिर्गन्धर्वैः स्तुतिवन्दिभिः। स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः
ततोऽभिगम्य कौन्तेयः शिरसाऽभ्यगमद्बली। स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत
ततः शक्रासने पुण्ये देवर्षिगणसेविते। शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके
मूर्धि चैनमुपाघ्राय देवेन्द्रः परवीरहा। अङ्कमारोपयामास प्रश्रयावनतं तदा
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा। आरुरुक्षुरमेयात्मा द्वितीय इववासवः
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्। पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्
प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ। ज्याशरक्षेपकिनौ स्तम्भाविव हिरण्मयौ
वज्रग्रहणचिह्नेन करेण परिसान्त्वयन्। मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयञ्शनैः
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्। हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा
एकासनोपविष्टौ तौ शोभयांसचक्रतुः सभाम्। सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना। गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु
घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा। उर्वशी मिश्रकेशी च दण्डगौरी वरूथीनि
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा। चित्रसेना चित्रलेखा सहा च मधुरस्वरा
एताश्चान्याश्च ननृतुस्तत्रतत्र शुचिस्मिताः। चत्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः। कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः
[ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्। शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्। प्रवेशयामासुरथो पुरंदरनिवेशनम्
एवं संपूजितो जिष्णुरुवास भवने पितुः। उपशिक्षन्महास्राणि ससंहाराणि पाण्डवः
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम्। अशनीश्च महानादा मेघबर्हिणलक्षणाः
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः। पुरंदरनियोगाच्च पञ्चाब्दानवसत्सुखी
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते। नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि
वादित्रं देवविहितं नृलोके यन्न विद्यते। तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः। स तेन सह संगम्य रेमे पार्थो निरामयः
गीतवादित्रनृत्यानि भूय एवादिदेश ह। तथाऽपि नालभच्छर्म तरस्वी द्यूतकारितम्
दुःशासनवधामर्षी शकुनेः सौबलस्य च। ततस्तेनातुलां प्रीतिमुपागम्य क्वचित्क्वचित्। गान्धऱ्वमतुलं नृत्यं वादित्रं चोपलब्धवान्
स शिक्षितो नृत्यगुणाननेका- न्वादित्रगीतार्थगुणांश्च सर्वान्। न शर्ण लेभे परवीरहन्ता भ्रातॄन्स्मरन्मातरं चैव कुन्तीम्
कदाचित्स हि देवेन्द्रश्चित्रसेनं रहोऽब्रवीत्। पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः