लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः। पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः। तान्दृष्टवानसि विभो तारारूपाणि भूतले
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम्। ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम्
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः। व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः
[एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः ।] ततो ददर्श शक्रस्य पुरीं ताममरावतीम्
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम्। सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्
तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम्। उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्। ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना। स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्युखैः
नायज्वभिर्नाव्रतिकैर्न वेदश्रुतिवर्जितैः। नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन। पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्। प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम्
तत्र देवविमानानि कामगानि सहस्रशः। संस्थितान्यभियातानि ददर्शायुतशस्तदा
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः। पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम्
आसीर्वादैः स्तूयमानो दिव्यवादित्रनिःस्वनैः। प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्। इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा। आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः। तम्बुरुर्नारदश्चैव गन्धर्वौ च हाहा हूहूः
तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः। ततोऽपश्यद्देवराजं शतक्रतुमरिंदमः
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्। ददर्श साक्षाद्देवेशं पितरं पाकशासनम्
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा। दिव्यगन्धाधिवासेन व्यजनेन विधूयता
विश्वावसुप्रभृतिनिर्गन्धर्वैः स्तुतिवन्दिभिः। स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः
ततोऽभिगम्य कौन्तेयः शिरसाऽभ्यगमद्बली। स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत
ततः शक्रासने पुण्ये देवर्षिगणसेविते। शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके
मूर्धि चैनमुपाघ्राय देवेन्द्रः परवीरहा। अङ्कमारोपयामास प्रश्रयावनतं तदा
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा। आरुरुक्षुरमेयात्मा द्वितीय इववासवः
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्। पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्
प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ। ज्याशरक्षेपकिनौ स्तम्भाविव हिरण्मयौ