नातप्ततपसा शक्य एष दिव्यो महारथः। द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव च
त्वयि मतिष्ठिते साधो रथस्थे स्थिरवाजिनि। पश्चादहमथारोक्ष्ये मुकृती सत्पथं यथा
तस्यतद्वचनं श्रुत्वा मातलिः शक्रसारथिः। आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः। जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः
ततः पितृन्यथान्यायं तर्पयित्वा यथाविधि। मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम्। त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम्
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः। स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्। गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च। तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः
सुसुगन्धाश्च वैर्योघास्त्वच्छरीरविनिःसृताः। अमृतास्वादसृशाः पीताः प्रस्रवणोदकाः
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा। मया तवाङ्के ललितं शैलराज महाप्रभो
अप्सरोगणसंकीर्णए ब्रह्मघोषानुनादिते। सुखमस्म्युषितः शैल तव सानुषु नित्यदा
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा। आरुरोह रथं दिव्यं द्योतयन्निव भास्करः
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा। ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम्। ददर्शाद्भुतरूपाणि विमानानि सहस्रशः
न तत्र सूर्यः सोमो वा द्योतते न च पावकः। स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै। आकाशे विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः। ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि। तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः
गन्धर्वाणां सहस्राणि मूर्यज्वलिततेजसाम्। गुह्यकारनामृषीणां च तथैवाप्सरसां गणान्
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः। पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः। तान्दृष्टवानसि विभो तारारूपाणि भूतले
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम्। ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम्
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः। व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः
[एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः ।] ततो ददर्श शक्रस्य पुरीं ताममरावतीम्
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम्। सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्
तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम्। उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्। ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना। स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्युखैः