दशवाजिसहस्राणि हरीणां वातरंहसाम्। वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्। ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम्
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम्। दृष्ट्वा पार्थो महाबाहुर्देवराजमतर्कयत्
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः। सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत्
भोभो शक्रात्मज श्रीमञ्शक्रस्त्वां द्रष्टुमिच्छति। आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संभतम्
आह माममरश्रेष्ठः पिता तव शतक्रतुः। कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा। गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते
अस्माल्लोकाद्देवलोकं पाकशासनशासनात्। मारोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्। राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः। दैवतैर्वा दुरारोहं दानवैर्वा रथोत्तमम्
नातप्ततपसा शक्य एष दिव्यो महारथः। द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव च
त्वयि मतिष्ठिते साधो रथस्थे स्थिरवाजिनि। पश्चादहमथारोक्ष्ये मुकृती सत्पथं यथा
तस्यतद्वचनं श्रुत्वा मातलिः शक्रसारथिः। आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः। जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः
ततः पितृन्यथान्यायं तर्पयित्वा यथाविधि। मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम्। त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम्
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः। स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्। गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च। तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः
सुसुगन्धाश्च वैर्योघास्त्वच्छरीरविनिःसृताः। अमृतास्वादसृशाः पीताः प्रस्रवणोदकाः
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा। मया तवाङ्के ललितं शैलराज महाप्रभो
अप्सरोगणसंकीर्णए ब्रह्मघोषानुनादिते। सुखमस्म्युषितः शैल तव सानुषु नित्यदा
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा। आरुरोह रथं दिव्यं द्योतयन्निव भास्करः
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा। ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम्। ददर्शाद्भुतरूपाणि विमानानि सहस्रशः
न तत्र सूर्यः सोमो वा द्योतते न च पावकः। स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै। आकाशे विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः। ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि। तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः
गन्धर्वाणां सहस्राणि मूर्यज्वलिततेजसाम्। गुह्यकारनामृषीणां च तथैवाप्सरसां गणान्