ततो जलधरश्यामो वरुणो यादसांपतिः। पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः। पश्य मां पृथुताम्राक्ष वरुणोस्मि जलेश्वरः
मया समुद्यतान्पाशान्वारुणाननिवारितान्। प्रतिगृह्णीष्व कौन्तेय सहरहस्यनिवर्तनान्
एभिस्तदा मया वीर संग्रामे तारकामये। दैतेयानां सहस्राणि संयतानि महात्मनाम्
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान्। गृहाण न हि ते मुच्येदन्तकोप्याततायिनः
अनेन त्वं यदाऽस्त्रेण संग्रामे विचरिष्यसि। तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः
ततस्तान्वारुणानस्त्रान्दिव्यानस्त्रविदांवरः। प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभापत। दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाहल। त्वया सह समागम्य अजितेन तथैव च
सव्यसाचिन्महाबाहो पूर्वदेव सनातन। सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः
दर्शनं ते त्विदं दिव्यं प्रदिशामि नरर्षभ। अमानुषान्महाबाहो दुर्जयानपि जेष्यसि
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम्। अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं भम। ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत्
महात्मना शंकरेण त्रिपुरं निहतं यादा। तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम। त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः। कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्। सान्त्वयञ्श्लक्ष्णयावाचादिव्यदुन्दुभिनिःस्वनः
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः। परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः
देवकार्यं तु सुमहत्त्वया कार्यमरिंदम। आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम। तत्र तेऽहंप्रदास्यामि सर्वाण्यस्त्राणि कौरव
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि। जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः
ततोऽर्जुनो महातेजा लोकपालान्समागतान्। पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि
ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम्। यथागतेन विबुधाः सर्वे कामं मनोजवाः
ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्पभः। कृतार्थमथ चात्मानं स मेने पूर्णमानसम्
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः। चिन्तयामास राजेन्द्र देवराजरथागमम्
तस्य चिन्तयमानस्य गुडाकेशस्य धीमतः। रथो मातलिसंयुक्त आजगाम महाप्रभः
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव। दिशः संपूरयन्नादैर्महामेघरवोपमैः
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः। दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः
तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः। वायुस्फोटाः सनिर्घाताः शङ्खमेघस्वनास्तथा
तत्रनागा महाकाया ज्वलितास्याः सुदारुणाः। सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः