स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः। यत्किं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः। प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत
ततः प्रभुस्त्रिदिवनिवासिनां वसी महामतिर्गिरिश उमापतिः शिवः। धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम्
ततः शुभं गिरिवरमीश्वरस्तदा सहोमयाऽसिततटसानुकन्दरम्। विहाय तं पतगमहर्षिसेवितं जगाम स्वं पुरुषवरस्य पश्यतः
तस्य संपश्यतस्त्वेव पिनाकी गोवृषध्वजः। जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान्
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा। मया साक्षान्महादेवो दृष्ट इत्येव भारत
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः। पिनाकी वरदो रूपी दृष्टः स्पृष्टश्ट पाणिना
कृतार्थं चावगच्छामि परमात्मानमात्मना। शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः। ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः। यादोगणवृतः श्रीमानाजगाम जलेश्वरः
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः। वरुणो यादसांभर्ता वशी तं देशमागमत्
अथ जाम्बूनदवपुर्विमानेन महार्चिषा। कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः। धनानामधिपः श्रीमानर्जुनं द्रष्टुमागतः
तथा लोकान्तकः श्रीमान्यमः साक्षात्प्रतापवान्। मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्। वैवस्वतो धर्मराजो विमानेनावभासयन्
त्रील्लोकान्गुह्यकांश्चैव गन्धर्वाश्चैव पन्नगान्। द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते
भानुमन्ति विचित्राणि शिखराणि महागिरेः। समास्थायार्जुनं तत्रददृशुस्तपसान्वितम्
ततो मुहूर्ताद्भगवानैरावतशिरोगतः। आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। शुशुभे नागराजस्थः सितमभ्रमिव स्थितः
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः। शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्। यमऋ परमधर्मज्ञो दक्षिणां दिशमास्थितः
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान्। दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम्
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः। नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः
त्वया च वसुसंभूतो महावीर्यः पितामहः। भीष्मः परमधर्मात्मा जेतव्यश्च रणेऽनघ
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्। निवातकवचाश्चैव संसाध्याः कुरुनन्दन
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः। कर्णश्व सुमहावीर्यस्त्वया वध्यो धनंजय
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम्। त्वया निपातिता युद्धेस्वकर्मफलनिर्जिताम्। गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन
अक्षया तव कीर्तिश्च लोके स्थासय्ति फल्गुन। त्वया साक्षान्महादेवस्तोषितो हि महामृधे
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्। अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि
प्रतिजग्राह पार्थोपि विधिवत्कुरुनन्दनः। समन्त्रं सोपरोधं च समोक्षविनिवर्तनम्