तूणौ चाप्यक्षयौ भूयस्तव पार्थ करोचितौ। भविष्यति शरीरं च नीरुजं कुरुनन्दन
प्रीतिमानस्मि वै पार्थ भवान्सत्यपराक्रमः। गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत। दिवि वा वर्तते त्रं त्वत्प्रधानमरिंदम
वरं ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज। कामये दिव्यामस्त्रं तद्धोरं पाशुपतं प्रभो
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्। युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत्
[कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः। त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि ।।]
जयेयं येन संग्रामे दानवान्राक्षसांस्तथा। राज्ञश्चैव पिशाचांश्च गन्धर्वानथपन्नगान्
यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः। शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च। सूतपुत्रेण च रणे नित्यं कटुकभाषिणा
एष मे प्रथमः कामो भगवन्भगनेत्रहन्। त्वत्प्रसादाद्विनिर्बृत्तः समर्थः स्यामहं यथा ।। x भव उवाच
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो। समर्थो धारणे मोक्षे संहारेऽपि च पाण्डव
न तद्वेद महेन्द्रोपि न यमो न च यक्षराट्। वरुणोप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः
न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्। जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम्
अबध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे। मनसा चक्षुषा वाचा धनुषा च निपात्यते
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः। उपसंगृह्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत्
ततस्त्वध्यापयामास सरहस्यनिवर्तनम्। तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम्
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्। प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। ससागरवनोद्देशा सग्रामनगराकरा
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः। तस्मिनमुहूर्ते संप्राप्ते निर्घातश्च महानभूत्
अथास्त्रं जाज्वलद्धोरं पाण्डवस्यामितौजसः। मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः
स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः। यत्किं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः। प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत
ततः प्रभुस्त्रिदिवनिवासिनां वसी महामतिर्गिरिश उमापतिः शिवः। धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम्
ततः शुभं गिरिवरमीश्वरस्तदा सहोमयाऽसिततटसानुकन्दरम्। विहाय तं पतगमहर्षिसेवितं जगाम स्वं पुरुषवरस्य पश्यतः
तस्य संपश्यतस्त्वेव पिनाकी गोवृषध्वजः। जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान्
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा। मया साक्षान्महादेवो दृष्ट इत्येव भारत
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः। पिनाकी वरदो रूपी दृष्टः स्पृष्टश्ट पाणिना
कृतार्थं चावगच्छामि परमात्मानमात्मना। शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः। ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः। यादोगणवृतः श्रीमानाजगाम जलेश्वरः
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः। वरुणो यादसांभर्ता वशी तं देशमागमत्