दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः। अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव। घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा। रोषमाहारयामास ताडयामास चेषुभिः
ततो हृष्टेन मनसा प्रतिजग्राह सायकान्। भूयोभूय इति प्राह मन्दमन्देत्युवाच ह
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः। इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः। शरैराशीविषाकारैस्ततक्षाते परस्परम्
ततोऽर्जुनः शरवर्षं किराते समवासृजत्। तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक्। अक्षतेन शरीरेण तस्थौ गिरिवाचलः
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः। परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत्
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः। गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः। विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः
न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः। शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः। अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः। व्यसृजच्छतधा राजन्मयूखानिव भास्करः
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः। शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा। वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम्
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्। पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः। अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः
अहमेनं धनुष्कोट्या रशूलाग्रेणेव कुञ्जरम्। नयामि दण्डधारस्य यमस्य सदनं प्रति
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च। मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा। तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः
ततोऽर्जुनो ग्रस्तधनुः खङ्गपाणिरतिष्ठत। युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम्
तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि। मुमोय भुजवीर्येण विक्रम्य कुरुनन्दनः
तकस्य मूर्धानमासाद्य पफालासिवरो हि सः। ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः। किरातरूपी भगवांस्ततः पार्थो महाबलः
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे। प्रजहार दुराधर्षे किरातसमरूपिणि
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः। किरातरूपी भगवानर्दयामास फल्गुनम्
ततश्चटचटाशब्दः सुधोरः समजायत। पाण्डवस्य च मुष्टीनां किरातस् च युध्यतः
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम्। भुजप्रहारसंयुक्तं वृत्रवासवयोरिव
महाराज ततो जिष्णुः किरातमुरसा बली। पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात्