यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्। तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम्
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्। किरातरूपी सहसा वारयामास शंकरः
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः। अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः। प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः। मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा
यथाऽशनैर्विनिष्पेषो वज्रस्येव च पर्वते। तथा तयोः सन्निपातः शरयोरभवत्तदा
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव। ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम्
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्। किरातवेषसंछन्नं स्त्रीसहायममित्रहा
तमब्रवीत्प्रीतमना कौन्तेयः प्रहसन्निव। को भवानटते शून्ये वने रस्त्रीगणसंवृतः
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ। किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः। कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि। तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम्
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव। उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनं
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात्। इयं भूमिः सदाऽस्माकमुचिता वसतां वने
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः। वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन
भवांस्तु कृष्णवत्मार्भः सुकुमारः सुखोचितः। कथं शून्यमिमं देशमेकाकी विचरिष्यति
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान्। निवसामि महारण्ये द्वितीय इव पावकः
एष चापि मया जन्तुर्मृगरूपं समाश्रितः। राक्षसो निहतो घोरो हन्तुं मामिह चागतः
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि। बाणैरभिहतः शेते नीतश्च यमसादनम्
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः। ममैव च प्रहारेण जीविताद्व्यपरिपितः
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः। अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव। घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा। रोषमाहारयामास ताडयामास चेषुभिः
ततो हृष्टेन मनसा प्रतिजग्राह सायकान्। भूयोभूय इति प्राह मन्दमन्देत्युवाच ह
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः। इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः। शरैराशीविषाकारैस्ततक्षाते परस्परम्
ततोऽर्जुनः शरवर्षं किराते समवासृजत्। तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक्। अक्षतेन शरीरेण तस्थौ गिरिवाचलः
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः। परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत्
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः। गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः