न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्। रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः। सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः। रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो
अराजके जनपदे दोषा जायन्ति वै सदा। उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा। नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः। राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः। ओषधिभ्यो मनुष्याणां धारयन्सततं हितम्
मनुष्याणां च यो धाता राजा राज्यकरः पुनः। दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना। अजानता कृतं मन्ये व्रतमेतदिदं मम
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्। न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्। प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत्
नैवान्यथेदं भविता पितरेष ब्रवीमि ते। नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन्
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा। नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु। यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः
किं पुनर्बाल एव त्वं तपसा भावितः सदा। वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम्
उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया।' सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर। पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्। चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्। ततो धर्मविहीनानां गतिरिष्टा न विद्यते
शम एव यतीनां हि क्षमिणां सिद्धिकारकः। क्षमावतामयं लोकः परश्चैव क्षमावताम्
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः। क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै। तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना। ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः। परिक्षिते नृपतये दयापन्नो महातपाः
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च। शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्। विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा। आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ। शमीको नाम राजेन्द्र वर्तते विषये तव
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः। तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च। क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै। तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति