नानापुष्पफलोपेतं नानापक्षिनिनादितम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्
ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम्। शङ्खानां पटहानां च शब्दः समभवद्दिवि
पुष्पवर्षं च सुमहन्निपपात महीतले। मेघजालं च सततं छादयामास सर्वतः
सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः। शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा
तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान्। नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा। पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः। पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत्
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा। तपस्युग्रे वर्तमान उग्रतेजा महामनाः
दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः। शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान्
पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः। द्विगुणेनैव कालेन द्वितीयं मासमत्ययात्
तृतीयमपि मासं स क्रमेणाहारमाचरन्। चतुर्थे त्वथ संप्राप्ते मासे भरतसत्तमः
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः। ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः। विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्। विवेदयिषवः पार्थं तपस्युग्रे समास्थितम्
नीलकण्ठं महादेवमभिवाद्य प्रणम्य च। सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह
एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः। उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्। संतापयति नः सर्वानसौ साधु निवार्यताम्
तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम्। उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह
न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः। शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः
अहमस्य विजानामि संकल्पं मनसि स्थितम्। नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः। यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै
तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः। प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम्
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु। पिनाकपाणिर्भगवान्सर्वपापहरो हरः
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम्। विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः
श्रीगद्धनुरुपादाय शरांश्चाशीविषोपमान्। निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः
देव्या सहोमया श्रीमान्समानव्रतवेषया। नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा
किरातवेषसंछन्नः स्त्रीभिश्चापि सहस्रशः। अशोभत तदा राजन्स देशोऽतीव भारत
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा। नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत्
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः। मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम्
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम्। हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्। सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्