न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्। न च सर्वामरैश्वर्यं कामये त्रिदशाधिप
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च। अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्। सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्। तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः। दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः। अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः
भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः। विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान्
कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः। वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्
किंचानेन कृतंतत्रवसता ब्रह्मवित्तम। कथं च भगवान्स्थाणुर्देवराजश्च तोषितः
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम। त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः। भवेन सह संग्रामं चकाराप्रतिमं किल। पुरा प्रहरतांश्रेष्ठः संग्रामेष्वपराजितः
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्। शूराणामपि पार्थानां हृदयानि चकम्पिरे
यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद
न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये। चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय
कथयिष्यामि ते तात कथामेतां महात्मनः। दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम्
गात्रसंस्पर्शसंबद्धां त्र्यम्बकेण महाहवे। पार्थस्य देवदेवेन शृणु सम्यक्समागमम्
युधिष्ठिरनियोगात्स जगामामितविक्रमः। शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम्
दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः। महाबलो महाबाहुरर्जुनः कार्यसिद्धये
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति। ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः
त्वरया परया युक्तस्तपसे धृतनिश्चयः। वनं कण्टकितं घोरमेक एवान्वपद्यत
नानापुष्पफलोपेतं नानापक्षिनिनादितम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्
ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम्। शङ्खानां पटहानां च शब्दः समभवद्दिवि
पुष्पवर्षं च सुमहन्निपपात महीतले। मेघजालं च सततं छादयामास सर्वतः
सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः। शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा
तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान्। नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा। पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः। पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत्
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा। तपस्युग्रे वर्तमान उग्रतेजा महामनाः
दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः। शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान्
पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः। द्विगुणेनैव कालेन द्वितीयं मासमत्ययात्