ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः। प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः
शनैरिव दिशं वीर उदीचीं भरतर्षभ। संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत। असज्जमानो वृक्षेषु जगाम सुमहाबलः
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः। युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान्। दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः। मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः
हिमवन्तमतिक्रम्य गन्धमादनमेव च। अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः
इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः। `गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत्। ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन
समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः'। अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः। अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम्
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्। सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः
कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी। निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः। विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम्
नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित्। निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम्
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्। तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्। न चैनं चालयामास धैर्यात्सुधृतनिश्चयम्
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव। वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन
एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः। प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे। त्वत्तोऽद्य भगवन्नस्त्रंकृत्स्नमिच्छामि वेदितम्
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव। इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय
कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम्। एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्। न च सर्वामरैश्वर्यं कामये त्रिदशाधिप
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च। अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्। सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्। तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः। दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः। अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः
भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः। विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान्
कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः। वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्
किंचानेन कृतंतत्रवसता ब्रह्मवित्तम। कथं च भगवान्स्थाणुर्देवराजश्च तोषितः
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम। त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ