तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा। प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः। वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत्
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम्। `धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः। ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः। प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान्। विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ
स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ। पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः
अवरोधाद्वने वासात्सर्वस्वहरणादपि। इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात्
मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः। ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका
इदं मे परमं दुःखं यः स पापः सुयोधनः। दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि
तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः। यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत
ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ। वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे
जेता यः सर्वशत्रूणां यः पावकमतर्पयः। जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ
अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते। त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय। तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि
वसुदेवस्वसा देवी त्वामार्या पुनरागतम्। पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे। रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः
न च नः पार्थ भोगेषु न धने नोत जीविते। तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते। जीवितं मरणं चैव राज्यमैश्वर्यमेव च
आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव। कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ। प्रयाह्यविघ्नेयैवाशु विजयाय महाबल
ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती। इमा वै तव पान्थस् पालयन्तु धनञ्जय
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी
ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः। प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः
शनैरिव दिशं वीर उदीचीं भरतर्षभ। संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत। असज्जमानो वृक्षेषु जगाम सुमहाबलः
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः। युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान्। दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः। मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः
हिमवन्तमतिक्रम्य गन्धमादनमेव च। अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः
इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः। `गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत्। ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन
समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः'। अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः। अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम्